वाक्यम्
दिखावट
किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् ।
- यथा –
- १. मृगो धावति,
- २. छात्रः श्लोकं पठति,
- ३. सः कटे उपविशति इति ।
- एषु प्रथमवाक्ये कर्तृकारकेण अन्विता धावनक्रिया । द्वितीये– कर्तृकारकेण कर्मकारकेण च अन्विता पठनक्रिया । तृतीये– कर्तृकारकेण अधिकरणकारकेण च अन्विता उपवेशनक्रिया ।