उळवी
दिखावट
उळवी ಉಳವಿ | |
---|---|
ग्रामः | |
चेन्नबसवेश्वरदेवालयः | |
राष्ट्रम् | भारतम् |
राज्यानि | कर्णाटकराज्यम् |
मण्डलम् | उत्तरकन्नडमण्डलम् |
उपमण्डलम् | जोइड |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
पत्रालयकूटसंख्या |
581187 |
उळवी (Ulavi) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले स्थितः ग्रामः । द्वादशशतके शिवशरणानां क्रान्तेः अनन्तरं चेन्नबसवण्णेन सह शरणाः उळवी प्रदेशे वने वासं कृतवन्तः । शरणानां नाम्ना अत्र अनेकाः गुहाः सन्ति । अक्कनागम्मा, मडिवाळमाचय्यः, किन्नरिबोमय्यः इत्यादीनां शरणानां स्मारकस्थानानि अत्र सन्ति । अस्य महामने इति कथयन्ति । "मने" इत्युक्ते कन्नडभाषायां गृहम् इत्यर्थः । महतां मने=गृहम् महामने महागृहम् इत्यर्थः । चेन्नबसवण्णस्य स्मारकमपि अस्ति । इदं क्षेत्रम् उत्तरकन्नडमण्डले प्रख्यातं प्रवासिधाम । उळविक्षेत्रात् अनतिदूरे काळीनदी प्रवहति । कोडसळ्ळि जलाशयः, विद्युदुत्पादनकेन्द्रमपि द्र्ष्टुं शक्यते । शिवरात्रेः पूर्वस्यां पूर्णिमायाम् अत्र चेन्नबसवण्णयात्रामहोत्सवः भवति । प्रकृतिसौन्दर्यस्य अत्र विशेषानुभवः भवति।
मार्गः
[सम्पादयतु]- जोयडातः ३६ कि.मी
- दाण्डेलीनगरतः ५६ कि.मी
- यल्लापुरतः ३२ कि.मी
- कारवारतः ९० कि.मी.